जयोsस्तु ते श्रीमहन्मंगले - संस्कृतानुवाद
जयोsस्तु ते श्रीमहन्मंगले शिवास्पदे शुभदे।
स्वतन्त्रते भगवति! त्वामहं यशोयुतां वन्दे ॥धृ॥
राष्ट्रस्य चैतन्य मूर्तिस्त्वं नीति: सम्पदां च ।
स्वतन्त्रते भगवति! श्रीमती राज्ञी त्वं तासाम् ॥
परवशताया: नभसि त्वं हि आकाशे निवसन्ती।
स्वतन्त्रते भगवति। चन्द्रिका नितरां प्रभासि ॥१॥
कपोलोपरि कुसुमीयो वा, कुसुम-कपोले वा ।
स्वतन्त्रते भगवति! त्वं हि य: विलसति स: रक्तिमा ।
त्वं सूर्यस्य तेज:, वारिधे: गाम्भीर्यमपि त्वम् ।
स्वतन्त्रते भगवति! अन्यथा ग्रहणबाधितौ तौ ॥२॥
मोक्ष: मुक्तिश्च तवैव रूपे,त्वामेव वेदान्ते ।
स्वतन्त्रते भगवति! योगिन: परब्रह्म वदन्ति ॥
स्वतन्त्रते भगवति सर्वं तव सहचारि आसीत् ॥३॥
हे अधमरक्तरंजिते, सुजनपूजिते ।
श्री-स्वतन्त्रते श्री-स्वतन्त्रते श्री-स्वतन्त्रते ।
त्वदर्थं मरणं जननम् त्वां विना हि जननं मरणम् ।
त्वां सकल-चराचरं शरणम् , चराचरं शरणम् ।
श्री-स्वतन्त्रते श्री-स्वतन्त्रते श्री-स्वतन्त्रते ।
जयोsस्तु ते……
संस्कृतानुवाद – राजेन्द्र भावे
गायन
भक्ती आठवले भावे
श्रीरंग भावे
श्रुती भावे
सरिता भावे
Music Track सौजन्य
विनायक दाबके मुंबई
Author: Sangeet Guru Sarita Bhave
Tags:
source
0 comments:
Post a Comment